हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Shatrugna Kavacham – श्री शत्रुघ्न कवचम्


अगस्त्य उवाच ।
अथ शत्रुघ्नकवचं सुतीक्ष्ण शृणु सादरम् ।
सर्वकामप्रदं रम्यं रामसद्भक्तिवर्धनम् ॥ १ ॥

शत्रुघ्नं धृतकार्मुकं धृतमहातूणीरबाणोत्तमं
पार्श्वे श्रीरघुनन्दनस्य विनयाद्वामेस्थितं सुन्दरम् ।
रामं स्वीयकरेण तालदलजं धृत्वाऽतिचित्रं वरं
सूर्याभं व्यजनं सभास्थितमहं तं वीजयन्तं भजे ॥ २ ॥

अस्य श्रीशत्रुघ्नकवचमन्त्रस्य अगस्तिरृषिः श्रीशत्रुघ्नो देवता अनुष्टुप् छन्दः सुदर्शन इति बीजं कैकेयीनन्दन इति शक्तिः श्रीभरतानुज इति कीलकं भरतमन्त्रीत्यस्त्रं श्रीरामदास इति कवचं लक्ष्मणांशज इति मन्त्रः श्रीशत्रुघ्न प्रीत्यर्थं सकलमनःकामनासिद्ध्यर्थं जपे विनियोगः ॥

अथ करन्यासः ।
ओं शत्रुघ्नाय अङ्गुष्ठाभ्यां नमः ।
ओं सुदर्शनाय तर्जनीभ्यां नमः ।
ओं कैकेयीनन्दनाय मध्यमाभ्यां नमः ।
ओं भरतानुजाय अनामिकाभ्यां नमः ।
ओं भरतमन्त्रिणे कनिष्ठिकाभ्यां नमः ।
ओं रामदासाय करतलकरपृष्ठाभ्यां नमः ।

अथ अङ्गन्यासः ।
ओं शत्रुघ्नाय हृदयाय नमः ।
ओं सुदर्शनाय शिरसे स्वाहा ।
ओं कैकेयीनन्दनाय शिखायै वषट् ।
ओं भरतानुजाय कवचाय हुम् ।
ओं भरतमन्त्रिणे नेत्रत्रयाय वौषट् ।
ओं रामदासाय अस्त्राय फट् ।
ओं लक्ष्मणांशजेति दिग्बन्धः ।

अथ ध्यानम् ।
रामस्य संस्थितं वामे पार्श्वे विनयपूर्वकम् ।
कैकेयीनन्दनं सौम्यं मुकुटेनातिरञ्जितम् ॥ १ ॥

रत्नकङ्कणकेयूरवनमालाविराजितम् ।
रशनाकुण्डलधरं रत्नहारसुनूपुरम् ॥ २ ॥

व्यजनेन वीजयन्तं जानकीकान्तमादरात् ।
रामन्यस्तेक्षणं वीरं कैकेयीतोषवर्धनम् ॥ ३ ॥

द्विभुजं कञ्जनयनं दिव्यपीताम्बरान्वितम् ।
सुभुजं सुन्दरं मेघश्यामलं सुन्दराननम् ॥ ४ ॥

रामवाक्ये दत्तकर्णं रक्षोघ्नं खड्गधारिणम् ।
धनुर्बाणधरं श्रेष्ठं धृततूणीरमुत्तमम् ॥ ५ ॥

सभायां संस्थितं रम्यं कस्तूरीतिलकाङ्कितम् ।
मुकुटस्थावतंसेन शोभितं च स्मिताननम् ॥ ६ ॥

रविवंशोद्भवं दिव्यरूपं दशरथात्मजम् ।
मथुरावासिनं देवं लवणासुरमर्दनम् ॥ ७ ॥

इति ध्यात्वा तु शत्रुघ्नं रामपादेक्षणं हृदि ।
पठनीयं वरं चेदं कवचं तस्य पावनम् ॥ ८ ॥

अथ कवचम् ।
पूर्वे त्ववतु शत्रुघ्नः पातु याम्ये सुदर्शनः ।
कैकेयीनन्दनः पातु प्रतीच्यां सर्वदा मम ॥ ९ ॥

पातूदीच्यां रामबन्धुः पात्वधो भरतानुजः ।
रविवंशोद्भवश्चोर्ध्वं मध्ये दशरथात्मजः ॥ १० ॥

सर्वतः पातु मामत्र कैकेयीतोषवर्धनः ।
श्यामलाङ्गः शिरः पातु भालं श्रीलक्ष्मणांशजः ॥ ११ ॥

भ्रुवोर्मध्ये सदा पातु सुमुखोऽत्रावनीतले ।
श्रुतकीर्तिपतिर्नेत्रे कपोले पातु राघवः ॥ १२ ॥

कर्णौ कुण्डलकर्णोऽव्यान्नासाग्रं नृपवंशजः ।
मुखं मम युवा पातु पातु वाणीं स्फुटाक्षरः ॥ १३ ॥

जिह्वां सुबाहुतातोऽव्याद्यूपकेतुपिता द्विजान् ।
चुबुकं रम्यचुबुकः कण्ठं पातु सुभाषणः ॥ १४ ॥

स्कन्धौ पातु महातेजाः भुजौ राघववाक्यकृत् ।
करौ मे कङ्कणधरः पातु खड्गी नखान्मम ॥ १५ ॥

कुक्षी रामप्रियः पातु पातु वक्षो रघूत्तमः ।
पार्श्वे सुरार्चितः पातु पातु पृष्ठं वराननः ॥ १६ ॥

जठरं पातु रक्षोघ्नः पातु नाभिं सुलोचनः ।
कटी भरतमन्त्री मे गुह्यं श्रीरामसेवकः ॥ १७ ॥

रामार्पितमनाः पातु लिङ्गमूरू स्मिताननः ।
कोदण्डधारी पात्वत्र जानुनी मम सर्वदा ॥ १८ ॥

राममित्रं पातु जङ्घे गुल्फौ पातु सुनूपुरः ।
पादौ नृपतिपूज्योऽव्याच्छ्रीमान् पादाङ्गुलीर्मम ॥ १९ ॥

पात्वङ्गानि समस्तानि ह्युदाराङ्गः सदा मम ।
रोमाणि रमणीयोऽव्याद्रात्रौ पातु सुधार्मिकः ॥ २० ॥

दिवा मे सत्यसन्धोऽव्याद्भोजने शरसत्करः ।
गमने कलकण्ठोऽव्यात्सर्वदा लवणान्तकः ॥ २१ ॥

एवं शत्रुघ्नकवचं मया ते समुदीरितम् ।
ये पठन्ति नरास्त्वेतत्ते नराः सौख्यभागिनः ॥ २२ ॥

शत्रुघ्नस्य वरं चेदं कवचं मङ्गलप्रदम् ।
पठनीयं नरैर्भक्त्या पुत्रपौत्रप्रवर्धनम् ॥ २३ ॥

अस्य स्तोत्रस्य पाठेन यं यं कामं नरोऽर्थयेत् ।
तं तं लभेन्निश्चयेन सत्यमेतद्वचो मम ॥ २४ ॥

पुत्रार्थी प्राप्नुयात्पुत्रं धनार्थी धनमाप्नुयात् ।
इच्छाकामं तु कामार्थी प्राप्नुयात्पठनादिना ॥ २५ ॥

कवचस्यास्य भूम्यां हि शत्रुघ्नस्य विनिश्चयात् ।
तस्मादेतत्सदा भक्त्या पठनीयं नरैः शुभम् ॥ २६ ॥

इति श्रीमदानन्दरामायणे सुतीक्ष्णागस्त्यसंवादे श्रीशत्रुघ्नकवचम् ।


Sri Raama Stotras – श्री राम स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.